Showing posts with label anthology. Show all posts
Showing posts with label anthology. Show all posts

Tuesday, June 11, 2013

Subhāṣitaratnakośa 720 (22.21)

प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव ।
निर्लज्ज हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः ।। (धर्मकीर्तेः)

Sunday, March 3, 2013

Saduktikarṇāmṛta 971

दुःखानि तिष्ठत चिरं मम चित्तभूमौ
युष्माकमेव वसतिर्विधिना कृतेयम् ।
यद्दैवदुर्विलसितक्रकचप्रहारै-
श्छिन्नोऽपि न त्रुटति जीवनतत्वबन्धः ।। (कस्यापि)

Saturday, March 2, 2013

Saduktikarṇāmṛta 929

संगमविरहविकल्पे वरमिह विरहो न संगमस्तस्याः ।
संगे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ।। (धर्मकीर्तेः)

Friday, February 8, 2013

Subhāṣitaratnakoṣa 1472 (42.12)

जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया
वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।। (अभिनन्दस्य)

Monday, February 4, 2013

Subhāṣitāvalī 3181

शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः
शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ।। (मातृगुप्तस्य)

Friday, February 1, 2013

Subhāṣitāvalī 3136

इह सरजसि मार्गे चञ्चलो यद्विधाता
ह्यगणितगुणदोषो हेतुशून्यत्वमुग्धः ।
सरभस इव बालः क्रीडितः पांसुपूरै-
र्लिखति किमपि किंचित्तच्च भूयः प्रमार्ष्टि ।। (कस्यापि)

Wednesday, January 30, 2013

Subhāṣitāvalī 321

यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
कामप्यन्तर्विदधति रुजं येऽप्यनुद्गीर्यमाणाः ।
तेऽभिप्रायाः किमपि हॄदये कण्ठलग्नाः स्फुरन्तो
यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ।। (भर्तृसारस्वतस्य)

Saturday, January 19, 2013

Subhāṣitaratnakoṣa 1631 (48.37)

प्रेम्णा पुरा परिगृहीतमिदं कुटुम्बं
चेल्लालितं तदनु पालितमद्य यावत् ।
सम्प्रत्यपि स्तिमितवस्त्रमिवांगलग्नम्
एतज्जिहासुरपि हातुमनीश्वरोऽहम् ।।

Friday, January 18, 2013

Subhāṣitaratnakoṣa 1676 (49.39)

पुरा याताः केचित्तदनु चलिताः केचिदपरे
विषादः कोऽस्माकं न हि न वयमप्यत्र गमिनः ।
मनःखेदस्त्वेवं कथमकृतसंकेतविधयो
महामार्गेऽस्मिन्नो नयनपथमेष्यन्ति सुहृदः ।।

Wednesday, November 28, 2012

Subhāṣitaratnakoṣa 1307 (39.4)

क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो
लिप्ता जर्जरकर्करी जतुलवैर्नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ।।

Sunday, November 25, 2012

Subhāṣitaratnakoṣa 728 (22.29)

आदृष्टिप्रसरात् प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे
मा भूद् आगत इत्यमन्दवलितोद्ग्रीवं पुनर्वीक्षितम् ।। (सिद्धोकस्य)

Thursday, November 22, 2012

Śārṅgadharapaddhati 409 (25.9)

वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं
रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः ।
दम्पत्योरिति जल्पितं निशि यदा चोरः प्रविष्टस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः ।।

Sunday, November 18, 2012

Śārṅgadharapaddhati 3741 (130.3)

यद् रात्रौ रहसि व्यपेतविनयं वृत्तं रसात् कामिनोर्
अन्योन्यं शयनीयम् ईहितरसावाप्तिप्रवृत्तस्पृहम् ।
तत् सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो
हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित् स्थितम्  ।। (अमरुकस्य)