Showing posts with label sanskrit. Show all posts
Showing posts with label sanskrit. Show all posts

Wednesday, September 25, 2013

Śārṅgadharapaddhati 3404

प्रयातेऽस्तं भानौ श्रितशकुनिनीडेषु तरुषु
स्फुरत्संध्यारागे शशिनि शनकैरुल्लसति च ।
प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा
तदारब्धं तन्व्या मरणमपि यत्रोत्सवपदम् ।। (भल्लटस्य)

Tuesday, June 18, 2013

Vikramāṅkadevacarita 6.35

अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपिङ्गलेषु ।
हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥

Tuesday, June 11, 2013

Subhāṣitaratnakośa 720 (22.21)

प्रिये प्रयाते हृदयं प्रयातं निद्रा गता चेतनया सहैव ।
निर्लज्ज हे जीवित न श्रुतं किं महाजनो येन गतः स पन्थाः ।। (धर्मकीर्तेः)

Sunday, June 9, 2013

Sattasaī 43, Meghadūta 11

(Meghadūta 11)
तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपातप्रणयि हृदयं विप्रयोगे रुणद्धि ॥

(Sattasaī 43)
विरहाणलो सहिज्जइ आसावंधेण वल्लहजणस्स ।
एक्कग्गामपवासो हु माए मरणं विसेसेइ ॥

Monday, April 1, 2013

Śārṅgadharapaddhati 3392 (100.12)

स्मर्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि त्वया
सत्यं नाथ यदि प्रदास्यति विधिर्जातिस्मरत्वं मम ।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कथं
प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ।। (कस्यापि)

Sunday, March 3, 2013

Saduktikarṇāmṛta 971

दुःखानि तिष्ठत चिरं मम चित्तभूमौ
युष्माकमेव वसतिर्विधिना कृतेयम् ।
यद्दैवदुर्विलसितक्रकचप्रहारै-
श्छिन्नोऽपि न त्रुटति जीवनतत्वबन्धः ।। (कस्यापि)

Saturday, March 2, 2013

Saduktikarṇāmṛta 929

संगमविरहविकल्पे वरमिह विरहो न संगमस्तस्याः ।
संगे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ।। (धर्मकीर्तेः)

Friday, February 8, 2013

Subhāṣitaratnakoṣa 1472 (42.12)

जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया
वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।। (अभिनन्दस्य)

Monday, February 4, 2013

Subhāṣitāvalī 3181

शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः
शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ।। (मातृगुप्तस्य)

Friday, February 1, 2013

Subhāṣitāvalī 3136

इह सरजसि मार्गे चञ्चलो यद्विधाता
ह्यगणितगुणदोषो हेतुशून्यत्वमुग्धः ।
सरभस इव बालः क्रीडितः पांसुपूरै-
र्लिखति किमपि किंचित्तच्च भूयः प्रमार्ष्टि ।। (कस्यापि)

Wednesday, January 30, 2013

Subhāṣitāvalī 321

यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
कामप्यन्तर्विदधति रुजं येऽप्यनुद्गीर्यमाणाः ।
तेऽभिप्रायाः किमपि हॄदये कण्ठलग्नाः स्फुरन्तो
यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ।। (भर्तृसारस्वतस्य)

Saturday, January 19, 2013

Subhāṣitaratnakoṣa 1631 (48.37)

प्रेम्णा पुरा परिगृहीतमिदं कुटुम्बं
चेल्लालितं तदनु पालितमद्य यावत् ।
सम्प्रत्यपि स्तिमितवस्त्रमिवांगलग्नम्
एतज्जिहासुरपि हातुमनीश्वरोऽहम् ।।

Friday, January 18, 2013

Subhāṣitaratnakoṣa 1676 (49.39)

पुरा याताः केचित्तदनु चलिताः केचिदपरे
विषादः कोऽस्माकं न हि न वयमप्यत्र गमिनः ।
मनःखेदस्त्वेवं कथमकृतसंकेतविधयो
महामार्गेऽस्मिन्नो नयनपथमेष्यन्ति सुहृदः ।।

Tuesday, January 15, 2013

Subhāṣitaratnakośa 440

याता लोचनगोचरं यदि विधेरेणेक्षणा सुन्दरी
नेयं कुङ्कुमपङ्कपिञ्जरमुखी तेनोज्झिता स्यात्क्षणम् ।
नाप्यामीलितलोचनस्य रचनाद्रूपं भवेदीदृशं
तस्मात्सर्वमकर्तृकं जगदिदं श्रेयो मतं सौगतम् ॥ 

Monday, January 14, 2013

Subhāṣitaratnakośa 1729

वहति न पुरः कश्चित्पश्चान्न कोऽप्यनुयाति मां
न च नवपदक्षुण्णो मार्गः कथं न्वहमेककः ।
भवतु विदितं पूर्वव्यूढोऽधुना खिलतां गतः
स खलु बहलो वामः पन्था मया स्फुटमुर्जितः ॥

Saturday, December 29, 2012

Uttararāmacarita 4.8

संतानवाहीन्यपि मानुषाणां दुःखानि सद्बन्धुवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते ।।

Saturday, December 8, 2012

Uttararāmacarita 2.26

चिराद् वेगारम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चित् संवेगाच्चलित इव शल्यस्य शकलः ।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनर्
पुराभूतः शोको विकलयति मां नूतन इव ।।

Tuesday, December 4, 2012

Uttararāmacarita 1.37

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ।।

Nītiśataka 2

यां चिन्तयामि सततं मयि सा विरक्ता
साप्यन्यमिच्छति जनं स जनो ऽन्यसक्तः ।
अस्मत्कृते च परिशुष्यति काचिदन्या
धिक्तां च तं च मदनं च इमां च मां च ॥

Friday, November 30, 2012

Śṛṅgāraśataka 63

इयं बाला मां प्रत्यनवरतमिन्दीवरदल-
प्रभाचोरं चक्षुः क्षिपति किमभिप्रेतमनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकर-
ज्वरज्वाला शान्ता तदपि न वराकी विरमति ।।