Showing posts with label amaru. Show all posts
Showing posts with label amaru. Show all posts

Wednesday, November 21, 2012

Amaruśataka 16

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद् वचः
तत्प्रातर्गुरुसंनिधौ निगदतः श्रुत्वैव तारं वधूः ।
कर्णालम्बितपद्मरागशकलं विन्यस्य चञ्च्वाः पुरो
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ।।