Showing posts with label poverty. Show all posts
Showing posts with label poverty. Show all posts

Monday, February 4, 2013

Subhāṣitāvalī 3181

शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णवे मज्जतः
शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे ।
निद्रा क्वाप्यवमानितेव दयिता संत्यज्य दूरं गता
सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ।। (मातृगुप्तस्य)

Wednesday, November 28, 2012

Vairāgyaśataka 21

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याञ्चाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान ॥

Subhāṣitaratnakoṣa 1307 (39.4)

क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो
लिप्ता जर्जरकर्करी जतुलवैर्नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ।।

Thursday, November 22, 2012

Śārṅgadharapaddhati 409 (25.9)

वासःखण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं
रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः ।
दम्पत्योरिति जल्पितं निशि यदा चोरः प्रविष्टस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः ।।