Saturday, December 29, 2012

Uttararāmacarita 4.8

संतानवाहीन्यपि मानुषाणां दुःखानि सद्बन्धुवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते ।।

Saturday, December 8, 2012

Uttararāmacarita 2.26

चिराद् वेगारम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चित् संवेगाच्चलित इव शल्यस्य शकलः ।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनर्
पुराभूतः शोको विकलयति मां नूतन इव ।।

Tuesday, December 4, 2012

Uttararāmacarita 1.37

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ।।

Nītiśataka 2

यां चिन्तयामि सततं मयि सा विरक्ता
साप्यन्यमिच्छति जनं स जनो ऽन्यसक्तः ।
अस्मत्कृते च परिशुष्यति काचिदन्या
धिक्तां च तं च मदनं च इमां च मां च ॥