Monday, April 1, 2013

Śārṅgadharapaddhati 3392 (100.12)

स्मर्तव्या वयमिन्दुसुन्दरमुखि प्रस्तावतोऽपि त्वया
सत्यं नाथ यदि प्रदास्यति विधिर्जातिस्मरत्वं मम ।
एकस्मिन्नपि जन्मनि प्रियतमे जातिस्मरत्वं कथं
प्राणाः पान्थ समं त्वयैव चलिताः काद्यापि जन्मैकता ।। (कस्यापि)