Showing posts with label vidyākara. Show all posts
Showing posts with label vidyākara. Show all posts

Friday, February 8, 2013

Subhāṣitaratnakoṣa 1472 (42.12)

जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया
वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।। (अभिनन्दस्य)

Wednesday, November 28, 2012

Subhāṣitaratnakoṣa 1307 (39.4)

क्षुत्क्षामाः शिशवः शवा इव तनुर्मन्दादरो बान्धवो
लिप्ता जर्जरकर्करी जतुलवैर्नो मां तथा बाधते ।
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं
कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ।।

Sunday, November 25, 2012

Subhāṣitaratnakoṣa 728 (22.29)

आदृष्टिप्रसरात् प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वैकं ससुधागृहं प्रति पदं पान्थस्त्रियास्मिन् क्षणे
मा भूद् आगत इत्यमन्दवलितोद्ग्रीवं पुनर्वीक्षितम् ।। (सिद्धोकस्य)

Tuesday, November 20, 2012

Subhāṣitaratnakoṣa 350 (15.17)

वारं वारमनेकधा सखि मया चूतद्रुमाणां वने
पीतः कर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।
तस्मिन्नद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गमुत्कम्पितं
तापश्चेतसि नेत्रयोस्तरलिमा कस्मादकस्मान्मम ।। (भोज्यदेवस्य)