Showing posts with label disenchantment. Show all posts
Showing posts with label disenchantment. Show all posts

Friday, February 8, 2013

Subhāṣitaratnakoṣa 1472 (42.12)

जनस्थाने भ्रान्तं कनकमृगतृष्णान्वितधिया
वचो वैदेहीति प्रतिदिशमुदश्रु प्रलपितम् ।
कृतालङ्काभर्तुर्वदनपरिपाटीषु घटना
मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ।। (अभिनन्दस्य)

Monday, November 19, 2012

Vairāgyaśataka 49

आयुर् वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं
तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ।।