Showing posts with label bhavabhūti. Show all posts
Showing posts with label bhavabhūti. Show all posts

Saturday, December 29, 2012

Uttararāmacarita 4.8

संतानवाहीन्यपि मानुषाणां दुःखानि सद्बन्धुवियोगजानि ।
दृष्टे जने प्रेयसि दुःसहानि स्रोतःसहस्रैरिव संप्लवन्ते ।।

Saturday, December 8, 2012

Uttararāmacarita 2.26

चिराद् वेगारम्भी प्रसृत इव तीव्रो विषरसः
कुतश्चित् संवेगाच्चलित इव शल्यस्य शकलः ।
व्रणो रूढग्रन्थिः स्फुटित इव हृन्मर्मणि पुनर्
पुराभूतः शोको विकलयति मां नूतन इव ।।

Tuesday, December 4, 2012

Uttararāmacarita 1.37

विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः ।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो
विकारश्चैतन्यं भ्रमयति च सम्मीलयति च ।।

Thursday, November 22, 2012

Uttararāmacarita 1.27

किमपि किमपि मन्दं मन्दमासक्तियोगाद्
अविचलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतैकैकदोष्णोर्
अविदितगतयामा रात्रिरेव व्यरंसीत् ।।

Thursday, November 15, 2012

Uttararāmacarita 5.17

अहेतुः पक्षपातो यस्तस्य नास्ति प्रतिक्रिया ।
स हि स्नेहात्मकस्तन्तुरन्तर्भूतानि सीव्यति ।।