Showing posts with label jagannātha. Show all posts
Showing posts with label jagannātha. Show all posts

Tuesday, November 27, 2012

Karuṇavilāsa 17

स्वप्नान्तरेऽपि खलु भामिनि पत्युरन्यं
या दृष्टवत्यसि न कंचन साभिलाषम् ।
सा सम्प्रति प्रचलितासि गुणैर्विहीनं
प्राप्तुं कथं कथय हन्त परं पुमांसम् ॥

Tuesday, November 13, 2012

Karuṇavilāsa 3

सर्वेऽपि विस्मृतिपथं विषयाः प्रयाताः
विद्यापि खेदकलिता विमुखी बभूव ।
सा केवलं हरिणशावलोचना मे
नैवापयाति हृदयादधिदेवतेव ॥