Showing posts with label 15th-century Kashmir. Show all posts
Showing posts with label 15th-century Kashmir. Show all posts

Friday, February 1, 2013

Subhāṣitāvalī 3136

इह सरजसि मार्गे चञ्चलो यद्विधाता
ह्यगणितगुणदोषो हेतुशून्यत्वमुग्धः ।
सरभस इव बालः क्रीडितः पांसुपूरै-
र्लिखति किमपि किंचित्तच्च भूयः प्रमार्ष्टि ।। (कस्यापि)

Wednesday, January 30, 2013

Subhāṣitāvalī 321

यैर्वातूलो भवति पुरतः कथ्यमानैर्जनानां
कामप्यन्तर्विदधति रुजं येऽप्यनुद्गीर्यमाणाः ।
तेऽभिप्रायाः किमपि हॄदये कण्ठलग्नाः स्फुरन्तो
यस्याख्येयास्तमिह सुहृदं पुण्यवन्तो लभन्ते ।। (भर्तृसारस्वतस्य)